मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् १२

संहिता

त्वं न॑ इन्द्रासां॒ हस्ते॑ शविष्ठ दा॒वने॑ ।
धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ॥

पदपाठः

त्वम् । नः॒ । इ॒न्द्र॒ । आ॒सा॒म् । हस्ते॑ । श॒वि॒ष्ठ॒ । दा॒वने॑ ।
धा॒नाना॑म् । न । सम् । गृ॒भा॒य॒ । अ॒स्म॒ऽयुः । द्विः । सम् । गृ॒भा॒य॒ । अ॒स्म॒ऽयुः ॥

सायणभाष्यम्

हे शविष्ठ बलवन्निन्द्र त्वं नोस्मभ्यं दावने प्रदानाय आसां गवां कर्मणिषष्ठी एतागाः हस्ते गृभाय गृहाण । ग्रहणे दृष्टान्तः-धानानां न धाना भृष्ट- यवाः अत्रापि कर्मणिषष्ठी धानायथा संगृह्णाति तद्वद्गृहाण । कीदृशस्त्वं अस्मयुरस्मान् कामयमानः गृहीत्वा चास्मयुः सन् द्विः संगृभाय पुनर्द्विवारं संगृहाण ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०