मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् १३

संहिता

सखा॑य॒ः क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ ।
उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥

पदपाठः

सखा॑यः । क्रतु॑म् । इ॒च्छ॒त॒ । क॒था । रा॒धा॒म॒ । श॒रस्य॑ ।
उप॑ऽस्तुतिम् । भो॒जः । सू॒रिः । यः । अह्र॑यः ॥

सायणभाष्यम्

हे सखायः ऋत्विजोध्वर्य्वादयः क्रतुं कर्मेन्द्रसंबंधिनमिच्छत कर्तुम् । हे सखायः शरस्य शॄहिंसायां हिंसकस्येन्द्रस्य कथा कथं राधाम साधयाम । किं उपस्तुतिं स्तोत्रं यइन्द्रोभोजः शत्रूणं भोजयिता सूरिः प्रेरकः अह्रयोऽनवनवतः शत्रूणामिति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०