सखा॑य॒ आ नि षी॑दत पुना॒नाय॒ प्र गा॑यत ।
शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये ॥
सखा॑यः । आ । नि । सी॒द॒त॒ । पु॒ना॒नाय॑ । प्र । गा॒य॒त॒ ।
शिशु॑म् । न । य॒ज्ञैः । परि॑ । भू॒ष॒त॒ । श्रि॒ये ॥
हे सखायः सखिभूताः स्तोतारऋत्विजः आनिषीदत स्तोतुं उपविशत । अथ पुना- नाय पूयमानाय सोमाय प्रगायत प्रकर्षेण गायत तमभिष्टुत । ततः अभिषुतं सोमं यज्ञै- र्यजनीयैः हविर्भिः मिश्रणैश्च श्रिये शोभनार्थं परिभूषत परितोलंकुरुत । तत्र दृष्टान्तः— शिशुंन यथा शिशुं बालं पुत्रं पितर आभरणैरलंकुर्वन्ति तद्वत् ॥ १ ॥ प्रवर्ग्येभिष्टवे समीवत्समित्येका । सूत्रितंच—समीवत्संनमातृभिः संवत्सइवमातृभिरिति ।