मुख्यपृष्ठम्
|
मण्डलवर्गीकरणम्
|
अष्टकवर्गीकरणम्
|
अनुक्रमणिका
ऋषिः
देवता
छन्दः
पदानि
मन्त्राः
विषयाः
|
निरुक्तम्
|
ऐतरेयब्रह्मण
|
बृहद्देवता
मन्त्रानुक्रमणिका
अ
आ
इ
ई
उ
ऊ
ऋ
ए
ऐ
ओ
औ
क
ख
ग
घ
च
छ
ज
त
द
ध
न
प
ब
भ
म
य
र
व
श
ष
स
ह
मन्त्र (मण्डल
.
सूक्त
.
ऋक्)
रक्षा॑ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः ।प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो॑ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नम् ॥ (४.३.१४)
रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित् ।नि॒दो यत्र॑ मुमु॒च्महे॑ ॥ (९.२९.५)
र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ ।शिशा॑नो अ॒ग्निः क्रतु॑भि॒ः समि॑द्ध॒ः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥ (१०.८७.१)
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम् ।द्रुणा॑ स॒धस्थ॒मास॑दत् ॥ (९.१.२)
र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः ।गोभि॑ः ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥ (१०.६४.११)
रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे ।आ यस्मि॑न्त॒स्थौ सु॒रणा॑नि॒ बिभ्र॑ती॒ सचा॑ म॒रुत्सु॑ रोद॒सी ॥ (५.५६.८)
रथं॒ यान्तं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मन्तं॑ सुवि॒ताय॑ भूषति ।प्रा॒त॒र्यावा॑णं वि॒भ्वं॑ वि॒शेवि॑शे॒ वस्तो॑र्वस्तो॒र्वह॑मानं धि॒या शमि॑ ॥ (१०.४०.१)
रथं॑ युञ्जते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ।रजां॑सि चि॒त्रा वि च॑रन्ति त॒न्यवो॑ दि॒वः स॑म्राजा॒ पय॑सा न उक्षतम् ॥ (५.६३.५)
रथं॒ ये च॒क्रुः सु॒वृतं॑ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं॑ वि॒श्वरू॑पाम् ।त आ त॑क्षन्त्वृ॒भवो॑ र॒यिं न॒ः स्वव॑स॒ः स्वप॑सः सु॒हस्ता॑ः ॥ (४.३३.८)
रथं॒ ये च॒क्रुः सु॒वृतं॑ सु॒चेत॒सोऽवि॑ह्वरन्तं॒ मन॑स॒स्परि॒ ध्यया॑ ।ताँ ऊ॒ न्व१॒॑स्य सव॑नस्य पी॒तय॒ आ वो॑ वाजा ऋभवो वेदयामसि ॥ (४.३६.२)
रथं॑ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह ।न च॒क्रम॒भि बा॑धते ॥ (८.५.३४)
रथं॒ हिर॑ण्यवन्धुरं॒ हिर॑ण्याभीशुमश्विना ।आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥ (८.५.२८)
रथं॒ हिर॑ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् ।आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥ (४.४६.४)
र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ ।तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः ॥ (६.७५.८)
रथा॑नां॒ न ये॒३॒॑ऽराः सना॑भयो जिगी॒वांसो॒ न शूरा॑ अ॒भिद्य॑वः ।व॒रे॒यवो॒ न मर्या॑ घृत॒प्रुषो॑ऽभिस्व॒र्तारो॑ अ॒र्कं न सु॒ष्टुभः॑ ॥ (१०.७८.४)
रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वतीं॑ रास्यग्ने ।अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जनाँ॑श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ॥ (१.१४०.१२)
र॒थि॒रासो॒ हर॑यो॒ ये ते॑ अ॒स्रिध॒ ओजो॒ वात॑स्य॒ पिप्र॑ति ।येभि॒र्नि दस्युं॒ मनु॑षो नि॒घोष॑यो॒ येभि॒ः स्व॑ः प॒रीय॑से ॥ (८.५०.८)
र॒थीत॑मं कप॒र्दिन॒मीशा॑नं॒ राध॑सो म॒हः ।रा॒यः सखा॑यमीमहे ॥ (६.५५.२)
र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ ।दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत्प॒र्जन्य॑ः कृणु॒ते व॒र्ष्यं१॒॑ नभः॑ ॥ (५.८३.३)
रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः ।अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ॥ (६.७५.६)
रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् ।इन्द्र॑वायू इ॒हा ग॑तम् ॥ (४.४६.५)
र॒थे॒ष्ठाया॑ध्वर्यव॒ः सोम॒मिन्द्रा॑य सोतन ।अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो॑ दा॒श्व॑ध्वरम् ॥ (८.४.१३)
रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामङ्गे॑भिररु॒षेभि॑रीयते ।आद॑स्य॒ ते कृ॒ष्णासो॑ दक्षि सू॒रय॒ः शूर॑स्येव त्वे॒षथा॑दीषते॒ वयः॑ ॥ (१.१४१.८)
रथो॒ यो वां॑ त्रिवन्धु॒रो हिर॑ण्याभीशुरश्विना ।परि॒ द्यावा॑पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तम् ॥ (८.२२.५)
रद॑त्प॒थो वरु॑ण॒ः सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीना॑म् ।सर्गो॒ न सृ॒ष्टो अर्व॑तीरृता॒यञ्च॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥ (७.८७.१)
रप॑त्क॒विरि॑न्द्रा॒र्कसा॑तौ॒ क्षां दा॒सायो॑प॒बर्ह॑णीं कः ।कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु॑र्यो॒णे कुय॑वाचं मृ॒धि श्रे॑त् ॥ (१.१७४.७)
रप॑द्गन्ध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मनः॑ ।इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ॥ (१०.११.२)
रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवै॑ः ।प्र सिन्धु॒मच्छा॑ बृह॒ती म॑नी॒षाव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ॥ (३.३३.५)
र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जाव॑न्तं यच्छता॒स्मासु॑ देवीः ।स्यो॒नादा वः॑ प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ (४.५१.१०)
र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो॑ वि॒श्वायु॒मा भ॑र ।अथा॑ नो॒ वस्य॑सस्कृधि ॥ (९.४.१०)
र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायु॑ः सु॒वीर्यं॑ नासत्या॒ वह॑न्ता ।आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो॑ भा॒गं दध॑तीमयातम् ॥ (१.११६.१९)
र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ॥ (१.६६.१)
र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी॑तिश्चिकि॒तुषो॒ न शासु॑ः ।स्यो॒न॒शीरति॑थि॒र्न प्री॑णा॒नो होते॑व॒ सद्म॑ विध॒तो वि ता॑रीत् ॥ (१.७३.१)
र॒रे ह॒व्यं म॒तिभि॑र्य॒ज्ञिया॑नां॒ नक्ष॒त्कामं॒ मर्त्या॑ना॒मसि॑न्वन् ।धाता॑ र॒यिम॑विद॒स्यं स॑दा॒सां स॑क्षी॒महि॒ युज्ये॑भि॒र्नु दे॒वैः ॥ (७.३९.६)
र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥ (८.३५.२१)
रसं॑ ते मि॒त्रो अ॑र्य॒मा पिब॑न्ति॒ वरु॑णः कवे ।पव॑मानस्य म॒रुतः॑ ॥ (९.६४.२४)
र॒साय्य॒ः पय॑सा॒ पिन्व॑मान ई॒रय॑न्नेषि॒ मधु॑मन्तमं॒शुम् ।पव॑मानः संत॒निमे॑षि कृ॒ण्वन्निन्द्रा॑य सोम परिषि॒च्यमा॑नः ॥ (९.९७.१४)
रा॒काम॒हं सु॒हवां॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑ ।सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्य॑म् ॥ (२.३२.४)
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् ।वर्ध॑मानं॒ स्वे दमे॑ ॥ (१.१.८)
राजा॑ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ ।अ॒न्तरि॑क्षेण॒ यात॑वे ॥ (९.६५.१६)
राजा॑ रा॒ष्ट्रानां॒ पेशो॑ न॒दीना॒मनु॑त्तमस्मै क्ष॒त्रं वि॒श्वायु॑ ॥ (७.३४.११)
राजा॑ समु॒द्रं न॒द्यो॒३॒॑ वि गा॑हते॒ऽपामू॒र्मिं स॑चते॒ सिन्धु॑षु श्रि॒तः ।अध्य॑स्था॒त्सानु॒ पव॑मानो अ॒व्ययं॒ नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वः ॥ (९.८६.८)
राजा॒ सिन्धू॑नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभि॒ः कनि॑क्रदत् ।स॒हस्र॑धार॒ः परि॑ षिच्यते॒ हरि॑ः पुना॒नो वाचं॑ ज॒नय॒न्नुपा॑वसुः ॥ (९.८६.३३)
राजा॒ सिन्धू॑नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठाम् ।अ॒प्सु द्र॒प्सो वा॑वृधे श्ये॒नजू॑तो दु॒ह ईं॑ पि॒ता दु॒ह ईं॑ पि॒तुर्जाम् ॥ (९.८९.२)
राजा॑ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे ।स॒हस्र॑स्थूण आसाते ॥ (२.४१.५)
राजा॑नो॒ न प्रश॑स्तिभि॒ः सोमा॑सो॒ गोभि॑रञ्जते ।य॒ज्ञो न स॒प्त धा॒तृभि॑ः ॥ (९.१०.३)
राजे॑व॒ हि जनि॑भि॒ः क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन् ।पि॒शा गिरो॑ मघव॒न्गोभि॒रश्वै॑स्त्वाय॒तः शि॑शीहि रा॒ये अ॒स्मान् ॥ (७.१८.२)
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ ।शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥ (९.८८.८)
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ ।शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥ (१.९१.३)
रा॒तिं यद्वा॑मर॒क्षसं॒ हवा॑महे यु॒वाभ्यां॑ वाजिनीवसू ।प्राचीं॒ होत्रां॑ प्रति॒रन्ता॑वितं नरा गृणा॒ना ज॒मद॑ग्निना ॥ (८.१०१.८)
रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभि॑ः ।विश्वा॒ अधि॒ श्रियो॑ऽधित ॥ (१०.१२७.१)
रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् ।दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब॑न्धू य॒मीर्य॒मस्य॑ बिभृया॒दजा॑मि ॥ (१०.१०.९)
रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ ।आ प॑वस्व सह॒स्रिणः॑ ॥ (९.३३.६)
रा॒यस्का॑मो॒ वज्र॑हस्तं सु॒दक्षि॑णं पु॒त्रो न पि॒तरं॑ हुवे ॥ (७.३२.३)
रा॒यस्पू॑र्धि स्वधा॒वोऽस्ति॒ हि तेऽग्ने॑ दे॒वेष्वाप्य॑म् ।त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो॑ मृळ म॒हाँ अ॑सि ॥ (१.३६.१२)
रा॒या व॒यं स॑स॒वांसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ ।तां धे॒नुमि॑न्द्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीम् ॥ (४.४२.१०)
रा॒या हि॑रण्य॒या म॒तिरि॒यम॑वृ॒काय॒ शव॑से ।इ॒यं विप्रा॑ मे॒धसा॑तये ॥ (७.६६.८)
रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥ (७.९०.३)
रा॒यो धारा॑स्याघृणे॒ वसो॑ रा॒शिर॑जाश्व ।धीव॑तोधीवत॒ः सखा॑ ॥ (६.५५.३)
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां य॒ज्ञस्य॑ के॒तुर्म॑न्म॒साध॑नो॒ वेः ।अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ (१.९६.६)
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः ।दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥ (१०.१३९.३)
रा॒र॒न्धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन् ।उ॒क्थेष्वि॑न्द्र गिर्वणः ॥ (३.४१.४)
रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः ।स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यवः॑ पा॒न्त्यग्र॑णीतिम् ॥ (२.११.१४)
रि॒शाद॑स॒ः सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञ॑ः सुवस॒नस्य॑ दा॒तॄन् ।यूनः॑ सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ॥ (६.५१.४)
रु॒जा दृ॒ळ्हा चि॑द्र॒क्षस॒ः सदां॑सि पुना॒न इ॑न्द ऊर्णुहि॒ वि वाजा॑न् ।वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये अन्ति॑ दू॒रादु॑पना॒यमे॑षाम् ॥ (९.९१.४)
रु॒द्रस्य॒ ये मी॒ळ्हुष॒ः सन्ति॑ पु॒त्रा याँश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै ।वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्पृश्नि॑ः सु॒भ्वे॒३॒॑ गर्भ॒माधा॑त् ॥ (६.६६.३)
रु॒द्राणा॑मेति प्र॒दिशा॑ विचक्ष॒णो रु॒द्रेभि॒र्योषा॑ तनुते पृ॒थु ज्रयः॑ ।इन्द्रं॑ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ (१.१०१.७)
रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृङ्गे॒ शिशा॑नो॒ हरि॑णी विचक्ष॒णः ।आ योनिं॒ सोम॒ः सुकृ॑तं॒ नि षी॑दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी॑ ॥ (९.७०.७)
रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै॑गु कृ॒ष्णा सद॑नान्यस्याः ।स॒मा॒नब॑न्धू अ॒मृते॑ अनू॒ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥ (१.११३.२)
रू॒पंरू॑पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय ।इन्द्रो॑ मा॒याभि॑ः पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ॥ (६.४७.१८)
रू॒पंरू॑पं म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्वं१॒॑ परि॒ स्वाम् ।त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपा ऋ॒तावा॑ ॥ (३.५३.८)
रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् ।येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ॥ (१०.९२.१५)
रे॒वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः ।क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ (१.३०.१३)
रे॒वद्वयो॑ दधाथे रे॒वदा॑शाथे॒ नरा॑ मा॒याभि॑रि॒तऊ॑ति॒ माहि॑नम् ।न वां॒ द्यावोऽह॑भि॒र्नोत सिन्ध॑वो॒ न दे॑व॒त्वं प॒णयो॒ नान॑शुर्म॒घम् ॥ (१.१५१.९)
रे॒वाँ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ ।प्रेदु॑ हरिवः श्रु॒तस्य॑ ॥ (८.२.१३)
रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी ।सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ॥ (१०.८५.६)
रोद॑सी॒ आ व॑दता गणश्रियो॒ नृषा॑चः शूरा॒ः शव॒साहि॑मन्यवः ।आ व॒न्धुरे॑ष्व॒मति॒र्न द॑र्श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे॑षु वः ॥ (१.६४.९)
रो॒हिच्छ्या॒वा सु॒मदं॑शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य ।वृष॑ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं॑ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ॥ (१.१००.१६)
रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्राम् ।अदा॑द्रा॒यो वि॒बोध॑नम् ॥ (८.३.२२)