मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७९, ऋक् २

संहिता

ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ ।
ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥

पदपाठः

ये । चि॒त् । हि । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । आस॑न् । सा॒कम् । दे॒वेभिः॑ । अव॑दन् । ऋ॒तानि॑ ।
ते । चि॒त् । अव॑ । अ॒सुः॒ । न॒हि । अन्त॑म् । आ॒पुः । सम् । ऊं॒ इति॑ । नु । पत्नीः॑ । वृष॑ऽभिः । ज॒ग॒म्युः॒ ॥

सायणभाष्यम्

सातमेवाह हेपते आगस्त्य येचिद्धियेपितु पूर्वेपुरातनाऋतसापः सत्यस्यापवितारः व्याप्नुवाना- महर्षयः आसन् तेदेवेभिर्देवैः साकंसह ऋतानिसत्यवाक्यान्यवदन् वदन्ति येमहत्तपोयज्ञंवाअनुति- ष्ठन्तियेचदेववाक्यानिदेवस्मृतिरूपाणिवदन्ति तेचित् चिदप्यर्थे तेपि अवासुः अवक्षिपन्तिरेतः स्यतिरुपसृष्टोविमोचनेवर्तते तेनह्यन्तमापुः नहिब्रह्मचर्यादेरन्तंप्राप्नुवन् ब्रह्मचारिणोप्यनिषिद्धऋतु- कालगमनमपिकुर्वन्तीत्यर्थः तथापत्नीः पत्न्यश्चतपस्यमानाः वृषभिर्भोगवर्षकैः पतिभिः सहसमूनु- जगम्युः उन्वितिपूरणौ सङ्च्छेरन् अतस्त्वंकथंमांनानुभवसीत्यर्थः ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२