मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३, ऋक् २

संहिता

नरा॒शंस॒ः प्रति॒ धामा॑न्य॒ञ्जन्ति॒स्रो दिव॒ः प्रति॑ म॒ह्ना स्व॒र्चिः ।
घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन्मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥

पदपाठः

नरा॒शंसः॑ । प्रति॑ । धामा॑नि । अ॒ञ्जन् । ति॒स्रः । दिवः॑ । प्रति॑ । म॒ह्ना । सु॒ऽअ॒र्चिः ।
घृ॒त॒ऽप्रुषा॑ । मन॑सा । ह॒व्यम् । उ॒न्दन् । मू॒र्धन् । य॒ज्ञस्य॑ । सम् । अ॒न॒क्तु॒ । दे॒वान् ॥

सायणभाष्यम्

नराशंसः नरैर्नेतृभिरृत्विग्भिः शंसनीयएतन्नामकोग्निः स्वर्चिः शोभनज्वालः सन् धामानिस्था- नानिआहुत्यधिकरणानितेजांसिप्रतिप्रत्येकंमह्नास्वमहिम्ना अञ्चन् व्यक्तीकुर्वन् तिस्रोदिवः द्योत- मानांस्त्रीन् भूम्यादिलोकांश्चप्रतिप्रत्येकमञ्चन् स्थित्याभूमिंप्रकाशेनान्तरिक्षंहविः प्रापणेनदिवमित्य- भिप्रायः यद्वा लोकानांप्रत्येकंत्रित्वोपेतत्वात् तिस्रोदिवइत्यविरुद्धं तिस्रोदिवः पृथिवीस्तिस्रइत्यादि- मन्त्रवर्णात् । त्रयोवाइमेत्रिवृतोलोकाइतिब्राह्मणाञ्च । तथाघृतप्रुषाघृतंसिञ्चता भनसाहव्यंउन्दन् क्लेदयन् स्निग्धीकुर्वन् यज्ञस्यमूर्धन् मूर्धनिमुखेहोमसमयेदेवन् यष्टव्यान् समनक्तु सम्यक् व्यक्तीकरोतु तर्पयत्वित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२