मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३, ऋक् ११

संहिता

घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ ।
अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥

पदपाठः

घृ॒तम् । मि॒मि॒क्षे॒ । घृ॒तम् । अ॒स्य॒ । योनिः॑ । घृ॒ते । श्रि॒तः । घृ॒तम् । ऊं॒ इति॑ । अ॒स्य॒ । धाम॑ ।
अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व । स्वाहा॑ऽकृतम् । वृ॒ष॒भ॒ । व॒क्षि॒ । ह॒व्यम् ॥

सायणभाष्यम्

अस्याग्नेर्घृतमाज्यंमिमिक्षे सिञ्चामि यतोस्यघृतं योनिःकारणं उत्पन्नोपिघृतेश्रितः आश्रितः अस्यग्नेर्घृतमेवधामतेजः घृतेनह्ययंदीप्यते इदानींसंबोध्योच्यते—हेअग्ने वृषभ फलस्यवर्षितस्त्वं- अनुष्वधंप्रतिहविः सर्वेष्वपिहविःषुदीयमानेषुआवह देवान् आहूयतान् मादयस्वप्रीणय ततस्त्वं- स्वाहाकृतंस्वाहाकारेणदत्तंहव्यं चरुपुरोडाशादि वक्षि वह ॥ ११ ॥

हुवेवइतिनवर्चंचतुर्थंसूक्तं भार्गवः सोमाहुतिनामकऋषिः अग्निर्देवता त्रिष्टुप् छन्दः हुवेनवसो- माहुतिर्भार्गवोहेत्यनुक्रमणिक प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभेछन्दसीदं सूत्रितञ्च—हुवेवः सुद्यो- त्मानंनिहोताहोतृषदनइतिसूक्तेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३