मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २२, ऋक् २

संहिता

अध॒ त्विषी॑माँ अ॒भ्योज॑सा॒ क्रिविं॑ यु॒धाभ॑व॒दा रोद॑सी अपृणदस्य म॒ज्मना॒ प्र वा॑वृधे ।
अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दु॑ः ॥

पदपाठः

अध॑ । त्विषि॑ऽमान् । अ॒भि । ओज॑सा । क्रिवि॑म् । यु॒धा । अ॒भ॒व॒त् । आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । अ॒स्य॒ । म॒ज्मना॑ । प्र । व॒वृ॒धे॒ ।
अध॑त्त । अ॒न्यम् । ज॒ठरे॑ । प्र । ई॒म् । अ॒रि॒च्य॒त॒ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥

सायणभाष्यम्

अधअथ सोमपानानन्तरं त्विषीमान् दीप्तिमानिन्द्रः ओजसाबलेनक्रिविं तन्नामासुरंयुधायुद्धेन अभ्यभवत् अभिभूतवान् किञ्च सइन्द्रः रोदसीद्यावापृथिव्यौ आपृणत् स्व्तेजसासमन्तात्पूरयामास तथाअस्यपीतस्यसोमस्यमज्मना बलेनप्रवावृधे प्रकर्षेणवर्धते यद्वा अस्यक्रिवेरसुरस्यमज्मनासारेणरो दसीअपूरयत् सइन्द्रः सोमंद्वेधाविभज्यान्यंभागंस्वकीयेजठरेअधत्त ईमेनमपरं भागंदेवेभ्यः प्रारिच्यत प्रारेचयत् एतेनार्धमिन्द्रायअर्धमन्येभ्योदेवेभ्यइत्युक्तंभवति तथा तैत्तिरीयकम्—यत्सर्वेषामर्धमिन्द्रः प्रतितस्मादिन्द्रोदेवतानांभूयिष्ठभाक्तमइति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८