मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३६, ऋक् १

संहिता

तुभ्यं॑ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पोऽधु॑क्षन्त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ ।
पिबे॑न्द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं॑ प्रथ॒मो य ईशि॑षे ॥

पदपाठः

तुभ्य॑म् । हि॒न्वा॒नः । व॒सि॒ष्ट॒ । गाः । अ॒पः । अधु॑क्षन् । सी॒म् । अवि॑ऽभिः । अद्रि॑ऽभिः । नरः॑ ।
पिब॑ । इ॒न्द्र॒ । स्वाहा॑ । प्रऽहु॑तम् । वष॑ट्ऽकृतम् । हो॒त्रात् । आ । सोम॑म् । प्र॒थ॒मः । यः । ईशि॑षे ॥

सायणभाष्यम्

हेइन्द्र तुभ्यंत्वदर्थंहिन्वानः प्रेर्यमाणः सोमः गाः गोविकाराणि दधिपयः प्रभृतीनिश्रपणद्र व्याणिवसतीवर्याख्याअपश्चवसिष्ट वस्ते आच्छादयति तैःसंयुज्यतइत्यर्थः नरोयज्ञस्यनेतारोध्वर्य वश्चसीमेनंसोमंअविभिः अवेर्वालमयैर्दशापवित्रैः अद्रिभिर्ग्रावभिश्चअधुक्षन्नक्षारयन् ग्रावभिरभिषु त्यदशापवित्रेणपुनन्तीत्यर्थः हेइन्द्र यस्त्वमीशिषेसर्वस्यजगतईश्वरोभवसि त्वंप्रथमः अन्येभ्योदेवे भ्यःपूर्वभावीसन्स्वाहास्वाहाकारेणप्रहुतंप्रकर्षेणाग्नौक्षिप्तंवषट् कृतंवषट् कारेणचत्यक्तम् तंसोमं होत्रात् होतुर्यागादासमन्तात्पिब ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५