मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३६, ऋक् २

संहिता

य॒ज्ञैः सम्मि॑श्ला॒ः पृष॑तीभिरृ॒ष्टिभि॒र्याम॑ञ्छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त ।
आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥

पदपाठः

य॒ज्ञैः । सम्ऽमि॑श्लाः । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । याम॑न् । शु॒भ्रासः॑ । अ॒ञ्जिषु॑ । प्रि॒याः । उ॒त ।
आ॒ऽसद्य॑ । ब॒र्हिः । भ॒र॒त॒स्य॒ । सू॒न॒वः॒ । पो॒त्रात् । आ । सोम॑म् । पि॒ब॒त॒ । दि॒वः॒ । न॒रः॒ ॥

सायणभाष्यम्

हेमरुतः यज्ञैर्यागैः संमिश्लाः संयुक्ताः पृषतीभिः स्ववाहनभूताभिः पृषद्वतीभिर्वडवाभिर्युक्ते यामन्यामनिगमनसाधनेरथेवस्थिताः ऋष्टिभिः स्वकीयैरायुधैः शुभ्रासः शुभ्राः शोभमानाः उत शब्दश्चार्थे अञ्चिष्वाभरणेषुप्रियाश्चहेभरतस्यसूनवः सर्वस्यजगतोभर्तूरुद्रस्यपुत्राः दिवोनरः दिवो न्तरिक्शस्यनेतारः एवंभूताहेमरुतः तेयूयंबर्हिरास्तीर्णेबर्हिषिआसाद्योपविश्यपोत्रात् पोतुर्यागात्सो ममापिबत ॥ २ ॥ तृतीयसवनेअमेवनइत्येषानेष्टुः प्रस्थितयाज्या तथाचसूत्रितम्—अमेवनःसुहवाआहिगन्तनेन्द्रा विष्णूपिबतंमध्वोअस्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५