मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३६, ऋक् ४

संहिता

आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु ।
प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ॥

पदपाठः

आ । व॒क्षि॒ । दे॒वान् । इ॒ह । वि॒प्र॒ । यक्षि॑ । च॒ । उ॒शन् । हो॒तः॒ । नि । स॒द॒ । योनि॑षु । त्रि॒षु ।
प्रति॑ । वी॒हि॒ । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पिब॑ । आग्नी॑ध्रात् । तव॑ । भा॒गस्य॑ । तृ॒प्णु॒हि॒ ॥

सायणभाष्यम्

हेविप्र मेधाविन्नग्ने देवान् यष्टव्याअनिन्द्रादीन् इहास्मिन्यज्ञेआवक्षिआवह यक्षिच तान् यजच हेहोतः देवानामाह्वातः त्वं चउशन्नस्मदीयंहविः कामयमानःसन् त्रिषुयोनिषुस्थानेषुगार्हपत्या दिलक्षणेषुनिषद उपविश उपविश्यच प्रस्थितं होमार्थमुत्तरवेदिंप्रत्यानीतंसोम्यंसोममयंमधुप्रति वीहि प्रतिकामयस्व कामयित्वाचआग्नीध्रादग्नीध्रयागात् सोमंपिब पीत्वाचतवभागस्य त्वदीये नभागेन तृप्णुहितृप्तोभव ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५