अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सम् ।
हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥
अश्वि॑ना । ह॒रि॒णौऽइ॑व । गौ॒रौऽइ॑व । अनु॑ । यव॑सम् ।
हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥
हेअश्विनौ हरिणाविव गौराविव गौरमृगाविवच तौयथा यवसं घासं अनुधावतः ताविव हंसाविवच सोममागच्छतं ॥ २ ॥