मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८६, ऋक् ६

संहिता

ए॒वेन्द्रा॒ग्निभ्या॒महा॑वि ह॒व्यं शू॒ष्यं॑ घृ॒तं न पू॒तमद्रि॑भिः ।
ता सू॒रिषु॒ श्रवो॑ बृ॒हद्र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं॑ गृ॒णत्सु॑ दिधृतम् ॥

पदपाठः

ए॒व । इ॒न्द्रा॒ग्निऽभ्या॑म् । अहा॑वि । ह॒व्यम् । शू॒ष्य॑म् । घृ॒तम् । न । पू॒तम् । अद्रि॑ऽभिः ।
ता । सू॒रिषु॑ । श्रवः॑ । बृ॒हत् । र॒यिम् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् । इष॑म् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् ॥

सायणभाष्यम्

एव एवं इदानींक्रियमाणप्रकारेणस्तुतिसाहित्येनेत्यर्थः इन्द्राग्निभ्यां हव्यं हविः अहावि परित्यक्तमासीत् कीदृशंतत् शूष्यं बलकरं किमिव अद्रिभिर्ग्रावभिः पूतमभिषुतं घृतंन सोमरसमिव तद्यथायुवाभ्यांप्रदीयते तद्वच्चरुपुरोडाशादिकमपि ता तौदेवौ सूरिषु मेधा- विष्वस्मासु बृहत्प्रभूतं श्रवोन्नं यशोवा रयिंधनंच दिधृतं धारयतं इषमन्नं गृणत्सु स्तुवत्सु दिधृतंपुनरुक्तिरादरार्था ॥ ६ ॥

प्रवोमहइतिनवर्चंपंचदशंसूक्तं एवयामरुदाख्यस्यात्रेयस्यमुनेरार्षं मरुद्देवताकमतिजगतीछन्दस्कं तथाचानुक्रमणिका-प्रवोनवैवया- मरुन्मारुतमतिजागतमिति । दशरात्रेषष्ठेहनितृतीयसवनेच्छावाकशस्त्रे इदंसूक्तं सूत्रितंच-एवयामरुदुक्तोवृषाकपिनेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२