मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् १४

संहिता

अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः ।
ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमां॑सं॒ परि॑ पातु वि॒श्वतः॑ ॥

पदपाठः

अहिः॑ऽइव । भो॒गैः । परि॑ । ए॒ति॒ । बा॒हुम् । ज्यायाः॑ । हे॒तिम् । प॒रि॒ऽबाध॑मानः ।
ह॒स्त॒ऽघ्नः । विश्वा॑ । व॒युना॑नि । वि॒द्वान् । पुमा॑न् । पुमां॑सम् । परि॑ । पा॒तु॒ । वि॒श्वतः॑ ॥

सायणभाष्यम्

अत्र धन्विनः प्रकोष्ठे बन्धनीयस्य हस्तघ्नस्य स्तुतिः हस्तघ्नः हस्ते हस्तसमीपे वर्तिनि प्रकोष्ठे स्थितः सन् ज्यया हन्यतइति हस्तघ्नः घञर्थेकविधानमिति कः ज्यायाः हेतिं ज्याहेतुकां हिंसां परिबाधमानः निवारयन् भोगैः शरीरेण वचनव्यत्ययः अहिरिव सर्पइव बाहुं प्रकोष्ठं लक्षणया बाहुशब्दः प्रकोष्ठे वर्तते पर्येति परिवेष्टयति किंच विश्वा विश्वानि वयुनानि ज्ञानानि ज्ञातव्यानि माया वयुनमिति तन्नामसु पाठात् विद्वान् जानन् पुमान् पौरुषोपेतः स्वयं पुमांसं धन्विनं विश्वतः सर्वतः परिपातु रक्षति तथाच यास्कः- अहिरिव भोगैः परिवेष्टयति बाहुं ज्यायावधात्परित्रायमाणोहस्तघ्नः सर्वाणि प्रज्ञानानि प्रजानन् पुमान् पुरुमना भवति पंसतेर्वेति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१