मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४०, ऋक् २

संहिता

न॒हि वां॑ व॒व्रया॑म॒हेऽथेन्द्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नर॑म् ।
स नः॑ क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

न॒हि । वा॒म् । व॒व्रया॑महे । अथ॑ । इन्द्र॑म् । इत् । य॒जा॒म॒हे॒ । शवि॑ष्ठम् । नृ॒णाम् । नर॑म् ।
सः । नः॒ । क॒दा । चि॒त् । अर्व॑ता । गम॑त् । आ । वाज॑ऽसातये । गम॑त् । आ । मे॒धऽसा॑तये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

हे इन्द्राग्नी वां युवां न वव्रयामहे वयं धनं न याचामहे । अथत्द्यपि तर्हि शविष्ठं अतिशयेन बलवन्तं नृणां नरं नेतॄणामपि नेतारं इन्द्रमिदिन्द्रमेव यजामहे सइन्द्रो नोस्मानर्वताश्वेन कदाचिद्वाजसातयेन्नलाभायागमदागच्छति कदाचिन्मेधसातथे यज्ञभजनायागमत् । सिद्धमन्यत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४