मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् ११

संहिता

अ॒न्यव्र॑त॒ममा॑नुष॒मय॑ज्वान॒मदे॑वयुम् ।
अव॒ स्वः सखा॑ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ॥

पदपाठः

अ॒न्यऽव्र॑तम् । अमा॑नुषम् । अय॑ज्वानम् । अदे॑वऽयुम् ।
अव॑ । स्वः । सखा॑ । दु॒धु॒वी॒त॒ । पर्व॑तः । सु॒ऽघ्नाय॑ । दस्यु॑म् । पर्व॑तः ॥

सायणभाष्यम्

हे इन्द्र अन्यव्रतं व्यतिरिक्तकर्माणं अतएव अमानुषं मानुषाणां इन्द्रयाजिनामप्रियं अयज्वानं अयष्टारं अदेवयुं अदेवकर्मिणं पापिनं स्वः स्वर्गादवदु- धुवीत अवचालयेदित्यर्थः । कः सखा पर्वतः तव सखिभूतः पर्वतऋषिः यद्यप्यन्यं देवमिष्ट्वा स्वर्गंप्राप्नोति सः तथापि पातयति ऋषिः । नकेवलं धूननमात्रं अपितु सुघ्नाय सुष्ठु हंत्रे मृत्यवे दस्युमुक्तलक्षणं पर्वतः प्रेरयतीति शेषः । अत इन्द्रमेवावश्यं यजध्वमिति शेषः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०