मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २१, ऋक् ८

संहिता

अग्ने॑ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् ।
अ॒भि॒क्रन्द॑न्वृषायसे॒ वि वो॒ मदे॒ गर्भं॑ दधासि जा॒मिषु॒ विव॑क्षसे ॥

पदपाठः

अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ । उ॒रु । प्र॒थ॒य॒से॒ । बृ॒हत् ।
अ॒भि॒ऽक्रन्द॑न् । वृ॒ष॒ऽय॒से॒ । वि । वः॒ । मदे॑ । गर्भ॑म् । द॒धा॒सि॒ । जा॒मिषु॑ । विव॑क्षसे ॥

सायणभाष्यम्

हे अग्ने बृहत् महांस्त्वं शुक्रेण दीप्तेन शोचिषा तेजसा उरु प्रथयसे विस्तीर्णं यथा भ वति तथा प्रख्यातोभवसि । किंच अभिक्रन्दन् आभिमुख्येत युद्धार्थं शत्रूनाह्वयन् वृषाय- से वृषइवाचरसि युद्धकालेदर्पितवृषइव रोरुवद्भवसीत्यर्थः । त्वं माध्यमिकः सन् जामिषु भगिनीभूतास्वोषधीषु गर्भं बीजलक्षणं दधासि वृष्टिद्वारेण धारयसि । एकस्मात् प्रजापतेः सकाशात् उद्भूतत्वादग्न्योषध्योर्जामित्वं उपचर्यते । कस्मिन् सति विवोमदे तव विविध- सोमादिहविर्जन्यमदे संजाते सति । यस्मात् एवं कृतवानसि तस्मात् त्वं विवक्षसे महान् भवसि विवक्षसइति महन्नाम वक्तेर्वा सन्नन्तस्यरूपं इति ॥ ८ ॥

कुहेति पञ्चदशर्चं षष्ठं सूक्तं ऎन्द्रं पश्चदशी त्रिष्टुप् पञ्चमीसप्तमीनवम्यस्तिस्रोनुष्टुभः शिष्टाः पुरस्ताद्बृहत्यः आद्यद्वादकत्र्यष्टक्वतीपुरस्ताद्बृहती पूर्ववदृषिः । तथाचानुक्रान्तं- कुहपंचोना पुर्स्तद्बार्हतं त्रिष्टुबन्तं त्वंत्याचिदानस्त्वंनोनुष्टुभइति । चतुर्थेहनि निष्केवल्ये एतत्सूक्तम् । सूत्रितंच—कुहश्रुतइन्द्रोयुध्मस्यतइति निष्केवल्यमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः