अ॒यं विप्रा॑य दा॒शुषे॒ वाजाँ॑ इयर्ति॒ गोम॑तः ।
अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ॥
अ॒यम् । विप्रा॑य । दा॒शुषे॑ । वाजा॑न् । इ॒य॒र्ति॒ । गोऽम॑तः ।
अ॒यम् । स॒प्तऽभ्यः॑ । आ । वर॑म् । वि । वः॒ । मदे॑ । प्र । अ॒न्धम् । श्रो॒णम् । च॒ । ता॒रि॒ष॒त् । विव॑क्षसे ॥
अयं सोमः विप्राय मेधाविने दाशुषे हविर्दत्तवते यजमानाय गोमतः पशुयुक्तानि वा- जान् अन्नानि इयर्ति प्रेरयति प्रयच्छतीत्यर्थः । किंच अयमेव सोमः सप्तभ्यः होत्राभ्यः वरं वरणीयं धनं आप्रयच्छति अन्धं नेत्रहीनं दीर्घतमसमृषिं चक्षुःप्रदानेन श्रोणं च पंगुं परावृजमृषिं चरणप्रदानेन एवमुभावृषी प्रतारिषत् प्रकर्षेण वर्धितवान् शिष्टं स्पष्टम् ॥ ११ ॥
प्रहीति नवर्चं दशमं सूक्तं आनुष्टुभं पूषदेवताकं आद्याचतुर्थ्यौ तूष्णिहौ ऋषिः पूर्ववत् तथाचानुक्रान्तम्—प्रहिनवपौष्णमानुष्टुभमाद्याचतुर्थ्याउष्णिहाविति । गतोविनियोगः ।