हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ ।
आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥
हरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्तः॑ । हरी॒ इति॑ । दि॒व्यम् । यथा॑ । सदः॑ ।
आ । यम् । पृ॒णन्ति॑ । हरि॑ऽभिः । न । धे॒नवः॑ । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् । अ॒र्च॒त॒ ॥
ये पूर्वे स्तोतार ऋषयो योनिमिन्द्रस्य स्थानभूतं हरिमश्वमभिसमस्वरन्। स्वृ शब्दोपतापयोः। अभिसंस्तुवन्ति। किं कुर्वन्तः। दिव्यं देवसम्बन्धि सदो यागगृहं यथा प्रेरयन्तीन्द्रं तथा हरी अश्वौ हिन्वन्तः प्रेरयन्तः। सोमेऽभिषुते सति स्वयमेवेन्द्रो रथेऽश्वौ प्रेरयति अतः सोतॄणां हरिप्रेरणत्वम्। यद्वा। दिव्यं सद इन्द्रः प्राप्नुयाद्यथा तथा हरी स्तुतिभिर्हिन्वन्तः प्रेरयन्तः। यमिन्द्रं धेनवो नवप्रसुतिका गावो यथा पृणन्ति क्षीरादिभिः। अत्र पुरस्तादुपचारोऽपि नकार उपमार्थीयः। हरिभिर्हरितवर्णैः सोमैरापृणन्ति पुरयन्ति च। तथा यूयमपीन्द्रायेन्द्रस्य हरिवन्तं शूषं बलमर्चत। पूजयत हे स्तोतारः स्तुतिभिः॥२॥