मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७०, ऋक् ४

संहिता

वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।
येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता ॥

पदपाठः

वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः ।
येन॑ । इ॒मा । विश्वा॑ । भुव॑नानि । आऽभृ॑ता । वि॒श्वऽक॑र्मणा । वि॒श्वदे॑व्यऽवता ॥

सायणभाष्यम्

हे सूर्य ज्योतिषा तेजसा स्वः सर्वं जगद्विभ्राजन्विभ्राजयन्दिवः सम्बन्धि रोचनं स्थानमगच्छः। प्राप्नोः। विश्वकर्मणा सर्वव्यापारहेतुना विश्वदेव्यावता। विश्वेशां देवानां हितो यागादिर्विश्वदेव्यः। तद्वता येन सौरेण तेजसेमेमानि परिद्रुश्यमानानि विश्वा सर्वाणि भुवनान्युदकानि भ्ॐआन्याभृता घर्मकाल् आभृतानि भवन्ति। यद्वा। सर्वाणि भूतजातान्याभृता समन्ताद्भृतानि पोषितानि भवन्ति। तेन ज्योतिषान्वयः॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८