इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑च्छ्रे॒ष्ठाभि॑र्मघवञ्छूर जिन्व ।
यो नो॒ द्वेष्ट्यध॑र॒ः सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥
इन्द्र॑ । ऊ॒तिऽभिः॑ । ब॒हु॒लाभिः॑ । नः॒ । अ॒द्य । या॒त्ऽश्रे॒ष्ठाभिः॑ । म॒घ॒ऽव॒न् । शू॒र॒ । जि॒न्व॒ ।
यः । नः॒ । द्वेष्टि॑ । अध॑रः । सः । प॒दी॒ष्ट॒ । यम् । ऊं॒ इति॑ । द्वि॒ष्मः । तम् । ऊं॒ इति॑ । प्रा॒णः । ज॒हा॒तु॒ ॥
इन्द्रोतिभिरित्याद्याश्चतस्रो वश्ष्ठद्वेषिण्यः । पुरा खलु विश्वमित्रशिष्यः सुदानाम राजर्षीरासीत् । स च केनचित्कारणेन वसिष्थद्वेष्योऽभूत् । विश्वामित्रस्तु शिष्यस्य रक्षार्थमाभिरृग्भिर्वसिष्ठमशपत् । इमा अभिशापरूपाः । ता ऋचो वसिष्ठा न शृण्वन्ति ॥
परस्य शापं करिष्यन् आदावात्मनो रक्षां कुरुते प्रथमेनार्धर्चेन । हे शूर शौर्यवन्पराभिभवशक्त हे मभवन्धनवन्निन्द्र अद्यास्मिनाले यात् । यातयतिर्वधकर्मा । यातयतीति यात् । सुपां सुलुगिति शपो लुक् । यातः शत्रून् हिंसतो नोऽस्मानूतिभिस्त्वदीयाभी रक्षाभिर्जिन्व । प्रीणय । कीदृशीभिः । बहुलाभिर्बह्वीभिः श्रेष्ठाभिः प्रशस्यतराभिः । अथ शपति । नोऽस्मान्यः शत्रुर्द्वेष्यो द्व्येष्ट्यस्मद्विषयामप्रीतिं करोति सोऽधरो निकृष्थः सन् पदीष्ट । पततु । वयं च यमुद्विष्मस्तमु तं द्वेष्यं प्राणो देहमध्ये वर्तमानः पञ्चवृत्तिर्वायुर्जहातु । परित्यजतु । उशब्दौ पूरकौ ॥ २१ ॥