मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् १६

संहिता

तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् ।
पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तम् ॥

पदपाठः

तत् । चक्षुः॑ । दे॒वऽहि॑तम् । शु॒क्रम् । उ॒त्ऽचर॑त् ।
पश्ये॑म । श॒रदः॑ । श॒तम् । जीवे॑म । श॒रदः॑ । श॒तम् ॥

सायणभाष्यम्

तत्पसिद्धं चक्षुः सर्वस्य प्रकाशकं देवहितं देवानां हितं तेषां हविः स्वीकारस्यैतदधीनत्वात् अथवा देवेन हितं शुक्रं निर्मलं सूर्यमण्डलं उच्चरत् उद्गच्छति तच्छरदः शतं शतसंवत्सरं पश्येम जीवेम शरदः शतं पुनः श्रुतिरादरार्था ॥ १६ ॥ पृष्ठ्याभिप्लवषडहयोःस्तोमनिमित्ते आवापे काव्येभिरदाभ्येतितृचः काव्येभिरदाभ्येति विस्रइति हि सूत्रितम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११