तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ।
वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥
तत् । अ॒द्य । चि॒त् । ते॒ । उ॒क्थिनः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ।
वृष॑ऽपत्नीः । अ॒पः । ज॒य॒ । दि॒वेऽदि॑वे ॥
हे इन्द्र ते त्वदीयं तत्प्रसिद्धं बलं अद्याचित् अद्यापि पूर्वथा पूर्वस्मिन्काले इव उक्थिनः शख्निणः स्तोतारःअनुष्टुवन्ति क्रमेण प्रशंसन्ति सत्वं वृषपत्नीः वृषा वर्षिता पर्जन्यः पतिर्यासां तादृशीरपः दिवेदिवे प्रतिदिवसं जय स्वायत्तंकुरु ॥ ६ ॥