यो म॑ इ॒मं चि॑दु॒ त्मनाम॑न्दच्चि॒त्रं दा॒वने॑ ।
अ॒र॒ट्वे अक्षे॒ नहु॑षे सु॒कृत्व॑नि सु॒कृत्त॑राय सु॒क्रतु॑ः ॥
यः । मे॒ । इ॒मम् । चि॒त् । ऊं॒ इति॑ । त्मना॑ । अम॑न्दत् । चि॒त्रम् । दा॒वने॑ ।
अ॒र॒ट्वे । अक्षे॑ । नहु॑षे । सु॒ऽकृत्व॑नि । सु॒कृत्ऽत॑राय । सु॒ऽक्रतुः॑ ॥
यः पृथुश्रवाः मे मह्यं इमं पुरतोवर्तमानं चित्रं चायनीयं गवाश्वादिकं दावने दानाय त्मना आत्मना स्वबुध्यैव अमदत् अमंदत अमाद्यत । सच सुक्रतुः शोभनकर्मा राजा सुकृत्तराय सुकृतकर्तृत्वाय अरट्वे अक्षे नहुषे सुकृत्वनिच एते तस्य राज्ञोध्यक्षाः तेष्वन्वशात् अस्मै गवादिकान्संयो- जयतेति । यद्वा अरट्वादयोन्येराजानः तेषु मध्ये सुकृत्तरायामन्ददिति ॥ २७ ॥