सु॒ता इन्द्रा॑य वा॒यवे॒ सोमा॑सो॒ दध्या॑शिरः ।
नि॒म्नं न य॑न्ति॒ सिन्ध॑वो॒ऽभि प्रयः॑ ॥
सु॒ताः । इन्द्रा॑य । वा॒यवे॑ । सोमा॑सः । दधि॑ऽआशिरः ।
नि॒म्नम् । न । य॒न्ति॒ । सिन्ध॑वः । अ॒भि । प्रयः॑ ॥
इन्द्रायवायवेच सोमासः सोमाः दध्याशिरः दध्याश्रयणाः सुताः अभिषुताः संपादिताः तेच निम्नंगर्तं सिन्धवोन नद्यइव हेइन्द्रवायू युवामभियन्ति प्रयोन्नरूपाः ॥ ७ ॥ तृतीयेहनिप्रउगशस्त्रेसजूर्विश्वेभिरितिवैश्वदेवस्तृचः सूत्रितंच-सजूर्विश्वेभिर्देवेभिरुतनः प्रियाप्रियास्विति ।