मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३४, ऋक् ३

संहिता

स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् ।
त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ॥

पदपाठः

स॒मा॒ने । अह॑न् । त्रिः । अ॒व॒द्य॒ऽगो॒ह॒ना॒ । त्रिः । अ॒द्य । य॒ज्ञम् । मधु॑ना । मि॒मि॒क्ष॒त॒म् ।
त्रिः । वाज॑ऽवतीः । इषः॑ । अ॒श्वि॒ना॒ । यु॒वम् । दो॒षा । अ॒स्मभ्य॑म् । उ॒षसः॑ । च॒ । पि॒न्व॒त॒म् ॥

सायणभाष्यम्

हे अश्विना अश्विनौ देवौ युवं युवामुभौ समानेऽहन्नेकस्मिन्ननुष्ठानदिने त्रिरवद्यगोहना त्रिवारमनुष्ठानगतानां दोषाणां संवरणकारिणौ भवतम् । अद्यास्मिन्दिने यज्ञं यज्ञगतं हविर्मधुना मधुररसेन त्रिर्मिमिक्षतम् । त्रिवारं सिंचतम् । किंच दोषा उषसश्च रात्रीर्दिवसांश्च रात्रिषु दिवसेषु नैरंतर्येण वाजवतीर्बलकारिणीरिषोऽन्नान्यस्मभ्यं पिन्वतम् । सिंचतम् । प्रयच्छतमित्यर्थः ॥ अहन् ॥ सुपां सुलुगिति सप्तम्या लुक् । अवद्यगोहना । गुहू संवरणे । अवद्यस्य गूहयितारौ नंद्यादित्वाल्ल्युः । ऊदुपधाया गोहः (पा ६-४-८९) इति प्राप्तस्य ऊत्वस्याभावश्छांदसः । मिमिक्षतम् । मिह सेचने । सन्येकाच उपदेशेऽनुदात्तादितीट् प्रतिषेधः । हलंताच्चेति सनः कित्त्वाल्लघूपधगुणाभावः । द्विर्भावहलादिशेषौ । ढत्वकत्वषत्वानि । वाजवतीः । उगितश्चेति ङीप् । पिन्वतं पिवि मिवि णिवि सेचने । इदित्त्वान्नुम् । कर्तरि शप् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः